📚 स्कन्दपुराणम् (ब्रह्मखण्डः)
Page 1
Download 📥
________________ ॥ श्रीगणेशायनमः ॥ * ॐ नमोभगवते वासुदेवाय श्रीमन्महर्षि वेदव्यासप्रणीतम् स्कन्दपुराणम् तस्येदं तृतीयं ब्रह्मखण्डम्प्रारभ्यते प्रथमोऽध्यायः तत्रादौ सेतुमाहात्म्यवर्णनम् शुक्लाम्बरधरं विष्णुं शशिवर्णञ्चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये नैमिषारण्यनिलये ऋषयः शौनकादयः । अष्टाङ्गयोग निरताब्रह्मज्ञानैकतत्पराः ॥ २ ॥ मुमुक्षवोहमहात्मानो निर्ममाब्रह्मवादिनः । धर्मज्ञाअनसूयाश्च सत्यव्रतपरायणाः ॥ ३ जितेन्द्रियाजितक्रोधाः सर्वभूतदयालवः । भक्त्या परमया विष्णुमर्चयन्तः सनातनम् ॥ तपस्तेपुर्महापुण्ये नैमिषे मुक्तिदायिनि । एकदातेमहात्मानः समाजञ्चकुरुत्तमम् ॥ ५ कथयन्तो महापुण्याः कथाः पापप्रणाशिनीः । भुक्तिमुक्तेरुपायञ्च जिज्ञासन्तः परस्परम् विंशतिसहस्राणामृषीणाम्भावितात्मनाम् । तेषां शिष्यप्रशिष्याणां सङ्ख्यां कर्तुं न शक्यते ॥ ७ ॥